|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.65. अध्यायः 065
Mahabharata - Ashvamedhika Parva - Chapter Topics
युधिष्ठिरेण विधिवन्नानाषलिहरणादिना सपरिचरमहेश्वरपतितोषणेन विविधकनकभाण्डाहरणेन पुनर्नगरंप्रत्यागमनम्॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
name="Azvamedhika-14-65-1x">ब्राह्मणा ऊचुः।
क्रियतामुपहारोऽद्य त्र्यम्बकस्य महात्मनः।
दत्त्वोपहारं नृपते ततः स्वार्थं यतामहे॥ 14-65-1(94302)
वैशम्पायन उवाच। 14-65-2x(7915)
श्रुत्वा तु वचनं तेषां ब्राह्मणानां युधिष्ठिरः।
गिरीशस्य यथान्यायमुपहारमुपाहरत्॥ 14-65-2(94303)
आज्येन तर्पयित्वाऽग्निं विधिवत्संस्कृतेन च।
मन्त्रसिद्धं चरुं कृत्वा पुरोधाः स ययै तदा॥ 14-65-3(94304)
स गृहीत्वा सुमनसो मन्त्रपूता जनाधिप।
मोदकैः पायसेनाथ मांसैश्चोपाहरद्बलिंम्॥ 14-65-4(94305)
सुमनोभिश्च चित्राभिर्लाजैरुच्चावचैरपि।
सर्वं स्विष्टकृतं हुत्वा विधिवद्वेदपारगः।
किंकराणां ततः पश्चाच्चकार बलिमुत्तमम्॥ 14-65-5(94306)
यक्षेन्द्राय कुबेराय माणिभद्राय चैव ह।
तथाऽन्येषां च यक्षाणां भूतानां पतयश्च ये॥ 14-65-6(94307)
कृसरेण च मांसेन निवापैस्तिलसंयुतैः।
ओदनं कुम्भशः कृत्वा पुरोधाः समुपाहरत्॥ 14-65-7(94308)
ब्राह्मणेभ्यः सहस्राणि गवां दत्वा तु भूमिपः।
नक्तंचराणां भूतानां व्यादिदेश बलि तदा॥ 14-65-8(94309)
धूपगन्धनिरुद्धं तत्सुमनोभिश्च संवृतम्।
शुशुभे स्थानमत्यर्थं देवदेवस्य पार्थिवः॥ 14-65-9(94310)
कृत्वा पूजां तु रुद्रस्य गणानां चैव सर्वशः।
ययौ व्यासं पुरस्कृत्य नृपो रत्ननिधिं प्रति॥ 14-65-10(94311)
पूजयित्वा धनाध्वक्षं प्रणिपत्याभिवाद्य च।
सुमनोभिर्विचित्राभिरपूपैः कृसरेण च॥ 14-65-11(94312)
शङ्खादींश्च निधीन्सर्वान्निधिपालांश्च सर्वशः।
अर्चयित्वा द्विजाग्र्या स्वस्ति वाच्य च वीर्यवान् 14-65-12(94313)
तेषां पुण्याहघोषेण तेजसा समवस्थितः।
प्रीतिमान्स कुरुश्रेष्ठः खानयामासं तं निधिम्॥ 14-65-13(94314)
ततः पात्री सकरका बहुरूपा मनोरमाः।
भृङ्गाराणि कटाहानि कलशान्वर्धमानकान्॥ 14-65-14(94315)
बहूनि च विचित्राणि भाजनानि सहस्रशः।
उद्धारयामास तदा धर्मराजो युधिष्ठिरः॥ 14-65-15(94316)
तेषां रक्षणमप्यासीन्महान्करपुटस्तथा।
नद्धं च भाजनं राजंस्तुलार्धमभवन्नृप॥ 14-65-16(94317)
वाहनं पाण्डुपुत्रस्य तत्रासीत्तु विशांपते।
षष्टिरुष्ट्रसहस्राणि शतानि द्विगुणा हयाः॥ 14-65-17(94318)
वारणाश्च महाराज सहस्रशतसंमिताः।
शकटानि रथाश्चैव तावदेव करेणवः।
स्वराणां पुरुषाणां च परिसङ्ख्या न विद्यते॥ 14-65-18(94319)
एतद्वित्तं तदभवद्यदुद्दध्रे युधिष्ठिरः।
षोडशाष्टौ चतुर्विंशत्सहस्रं भारलक्षणम्॥ 14-65-19(94320)
एतेष्वादाय तद्द्रव्यं पुनरभ्यर्च्य पाण्डवः।
महादेवं प्रति ययौ पुरं नागाहयं प्रति॥ 14-65-20(94321)
द्वैपायनाभ्यनुज्ञातः पुरस्कृत्य पुरोहितम्।
गोरुते गोरुते चैव न्यवसत्पुरुषर्षभः॥ 14-65-21(94322)
सा पुराऽभिमुखा राजन्नुवाह महती चमूः।
कृच्छ्राद्द्रविणभारार्ता हर्षयन्ती कुरूद्वहान्॥ ॥ 14-65-22(94323)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चषष्टितमोऽध्यायः॥ 65 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-65-14 पात्रीः महान्ति ओदनोद्धरणपात्राणि। करका अल्पघटाः। भृङ्गाराणि गडुकान्। वर्धमानकान् शरावाणि॥ 7-65-16 करपटः करसंपुटाकारं द्विजलभाजनं उष्ट्रादिवाह्यम् संदूख इति प्रसिद्धम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|